SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् चतुर्थ उद्देशकः ८८५ (B) स्थिता यैर्भिक्षादिनिमित्तमागच्छद्भिर्ग उद्भिश्च परस्परं मिलद्भिः, गाथायां सप्तमी तृतीयार्थे, अपान्तराले पथि भाविता ग्रामास्तत्र गन्तव्यम्। तेषामप्यभावे दूरेऽपि गम्यते। तत्र पुनर्भिक्षामहिण्डमानो गच्छति। किं कारणम्? अत आह- मा णं अडतं बहू पासे, मा णमिति वाक्यालङ्कारे, भिक्षामन्टतं बहुर्लोकोऽभावितः पश्यत्विति कृत्वा। ततोऽभक्तार्थेन यावत् प्राप्यते षष्ठेन वा अष्टमेन वा तत्र गन्तव्यम् ॥ १९७१ ॥ आह यद्यपि चतुर्थादिना गच्छति तथापि लोक: पश्यति? तत आहपायं न रीयइ जणो, वासे पडिवत्तिकोविदो जो य । दारं ५ असतो( ?त)ऽवबद्धे दूरे य अच्छए जा पभायंति ॥ १९७२ ॥ दारं ६ प्रायः कर्षकजनः क्षेत्राणां जल-कर्दमाकुलतया शेषजनो मार्गस्य जलाविलत्वादिना दुर्गमतया वर्षे वर्षाकाले न रीयते न गच्छति। यश्चात्र प्रतिपत्तिकोविदः परप्रतिपादनकुशलस्तेन एवमादिषु विषयेऽनेकान्युत्तराणि जल्पितव्यानि । एतावता "एगाह चउत्थादी" [१९६६] इति व्याख्यातम् । इदानीम् “असती अण्णत्थ तत्थेव" इति व्याख्यानार्थमाह- असतोवबद्ध इत्यादि, पूर्वोक्तो विधि: सान्तरे वर्षेऽभिहितः, यदि पुनरसकृत् अवबद्धं वा सततं वर्ष गाथा १९६८-१९७२ उपसम्पदन सामाचारी यतना च ८८५ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy