________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८८३ (B)
परं वसति तत्र से तस्य स्वकृतादन्तरात् छेदः परिहारो वा । अत्र भाष्यप्रपञ्चः
एमेव य वासासुं१ भिक्खे२ वसहीए३ संक४ नाणत्तं । एगाह चउत्थादी असती अण्णत्थ तत्थेव६ ॥ १९६६ ॥
एवमेव ऋतुबद्धविषयसूत्रगतेनैव प्रकारेण वर्षासूत्रं भावनीयम् । नवरम्- भिक्षायां । वसतौ शङ्कायां च नानात्वम्। तत्रान्यत्र गन्तव्यम् एकाहेन चतुर्थेन, आदिशब्दात् षष्ठेनाष्टमेन | वा। असति अन्यत्र गमने तत्रैव वर्षारात्रः कर्तव्यः । एष द्वारगाथासक्षेपार्थः ॥१९६६ ॥
सूत्र १२ साम्प्रतेमेनामेव विवरीषुः प्रथमत एवं शब्दं व्याख्यानयति
गाथा
१९६४-१९६७ अपरीमाणे पिहब्भावे, एगत्ते अवधारणे ।
चातुर्मासे एवंसद्दो उ एएसिं, एगत्ते उ इहं भवे ॥ १९६७ ॥
उपसम्प
दनविधिः एवं शब्दः अपरीमाणे पृथग्भावे एकत्वेऽवधारणे। तत्रापरीमाणे यथा- एवमन्येऽपीत्यादौ। पृथग्भावे- घटात् यथा पटः पृथग्, एवमाकाशास्तिकायाद्धर्मास्तिकायोऽपीति।
८८३ (B) एकत्वे- यथाऽयमेतद्गुण एवमेषोऽपि, अत्र ह्येवंशब्दस्तयोरेकरूपतामभिद्योतयति । अवधारणे |
For Private and Personal Use Only