________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८८३ (A)
कारणंसि निट्ठियंसि परो वरजा वसाहि अजो! एगरायं वा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए। जं तत्थ परं एगरायाओ वा दुरायाओ वसइ, से सन्तरा छेए वा परिहारे वा ॥१२॥ ___ "वासावासे पज्जोसविए भिक्खू जं पुरतो कट्ट विहरति" इत्यादि, वर्षावासे पर्युषिते भिक्षुर्यं पुरतः कृत्वा विहरति आस्ते स कदाचिद् विष्वग् भवेत् शरीरात्पृथग्भवेत्, म्रियेत इत्यर्थः । अस्ति चात्रान्यः कश्चिदुपसम्पदनाहः स उपसम्पत्तव्यः। नास्ति वा तत्रान्यः कश्चिदुपसम्पदनार्हः तर्हि स आत्मनः कल्पेनाऽसमाप्त इति से तस्य कल्पते एकरात्रिक्या प्रतिमया यत्र वसति तत्र एकरात्राभिग्रहेण जण्णं जण्णं इत्यादि, यस्यां यस्यां दिशि अन्ये साधर्मिका विहरन्ति तां तां दिशमुपलातुम्। न पुनः से तस्य कल्पते, तत्रापान्तराले विहारप्रत्ययं वस्तुम्। कल्पते से तस्य तत्र कारणप्रत्ययं सङ्घाटादिकारणनिमित्तं वस्तुम्। तस्मिंश्च कारणे निष्ठिते यदि परो वदेत्- वस आर्य ! एकरात्रं द्विरात्रं वा, वाशब्दात् त्रिरात्रं वा, एवं से तस्य कल्पते एकरात्रं वा द्विरात्रं वा, वाशब्दात् त्रिरात्रं वा वस्तुम्। नो से तस्य कल्पते एकरात्राद् द्विरात्राद्वा परं वस्तुम् । यत्तत्र एकरात्राद् वा द्विरात्राद्वा
सूत्र १२
गाथा |१९६४-१९६७
चातुर्मासे उपसम्पदनविधिः
८८३ (A)
For Private and Personal Use Only