________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८८२ (B)
दोषौ द्वौ तृतीयभङ्गे, अशुद्धस्य शुद्धगमनमित्येवंलक्षणे, तद्यथा-गाणङ्गणिकता गणे गणे प्रविशतीत्येवं प्रवादलक्षणा। तथा गच्छभेदश्च। तथाहि- तस्मिन् निर्गच्छत्यन्येऽप्येवमेव निर्गच्छन्ति, ततो जायते गणविनाशः । चरमेऽपि 'अशुद्धस्याशुद्धगमन' मित्येवंरूपे भने द्वौ दोषौ। अपिशब्दः भिन्नक्रमः, स च यथास्थानं योजितः । श्रुतहानिः कायवधश्च निष्कारणं दोषबहुलतया वा निर्गमने ह्यन्यत्रापि नावकाश इति श्रुतहानिः, मार्गे च गमनतो ग्लानत्वादिभावतो वा कायवधः ॥१९६५ ।। ___ तदेवं भावितमृतुबद्धविषयं सूत्रम्। सम्प्रति वर्षावासविषयं सूत्रमाह
सूत्र १२ सूत्रम्- वासावासे पज्जोसविए भिक्खू जं पुरओ कट्ट विहरइ आहच्च वीसुंभेजा, | गाथा अत्थि या इत्थ अन्ने केइ उवसंपज्जणारिहे, से उवसंपजियव्वे, नत्थि या इत्थ अन्ने ||१९६४-१९६७
चातुर्मासे केइ उवसंपजणारिहे, तस्स अप्पणो कप्पाए असमत्ते कप्पइ से एगराइयाण पडिमाए
उपसम्पजण्णं जणं दिसं अन्ने साहम्मिया विहरन्ति तण्णं तण्णं दिसं उवलित्तए । नो से दनविधिः कप्पड़ तत्थ विहारवत्तियं वत्थए, कप्पड़ से तत्थ कारणवत्तियं वत्थए । तंसि च णं
८८२ (B) १. अत्थि या इंथ सेसं तं चेव जाव छेए वा परिहारे वा- इति प्रतिलिपि पाठः॥
For Private and Personal Use Only