________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
वासं खंधार नदी, तेणा सावय वसेण सत्थस्स । एएहिं कारणेहि, अजयण जयणा य नायव्वा ॥ १९६४ ॥ दारं ९।।
चतुर्थ
उद्देशकः ८८२ (A)
वर्षं पतति१ स्कन्धावार: कटकं तद्वा चलति २ नदी गिरिणदी पूर्णा वर्तते ३ स्तेना वा अपान्तराले द्विविधाः शरीरापहारिण उपकरणापहारिणश्च ४ श्वापदाः सिंहादयः ५ सार्थस्य वा वशेन गच्छति सार्थश्च चिरमपि तिष्ठन् वर्तते, एतैः कारणैः चिरमप्यपान्तराले तिष्ठति। तंत्र अयतना यतना च ज्ञातव्या। तत्र यदि यतना कृता तदा न प्रायश्चित्तविषयः अथायतनामाचरितवान् तदा प्रायश्चित्ते लगति ९॥ १९६४ ॥
उक्तः शुद्धस्याशुद्धगमनमिति द्वितीयो भङ्गः। सम्प्रति तृतीय-चतुर्थभङ्गावाहदोसा उ ततियभंगे, गाणंगणिया य गच्छभेदो य । सुयहाणी कायवहो, दोण्णि वि दोसा भवे चरिमे ॥ १९६५ ॥
सूत्र १२
गाथा १९६४-१९६७
चातुर्मासे उपसम्पदनविधिः
८८२ (A)
१. वा. मो. पु. सं.। उपध्यप० पु. प्रे.॥ २. तत्रायतना कर्तव्या- मो.॥ तत्रायतना यतना च कर्तव्या- सं.॥
For Private and Personal Use Only