________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचारप्रकल्पे अवमे दुर्भिक्षे वजिकादिभिरपि, आदिशब्दात्स्वज्ञात्यमनोज्ञासंविग्नपरिग्रहः, व्रजेदित्युक्तम्, अतः सोपपत्तिकेयं यतनेति सम्यक् श्रद्धया ॥ १९६२॥
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८८१ (B)
गतं यतनाद्वारम् ७ । अधुना निसृष्टद्वारमाहसमणुण्णेसु वि वासो, एगनिसिं किमुत अण्णमोसण्णे ?। दारं ८।। असढो पुण जयणाए, अच्छेज्ज चिरंपि उ इमेहिं ॥ १९६३ ॥
समनोज्ञेष्वपि अपान्तराले वास उत्सर्गत एकां निशां एकां रात्रिं कल्पते, किमुत किं पुनः अन्येषु असाम्भोगिकेषु अवसन्नेषु ?। उपलक्षणमेतत्, पार्श्वस्थादिषु वा? तत्र सुतरामेकरात्र्यधिकं न कल्पते। कारणवशतः पुनरुत्कर्षतस्त्रीणि दिनानि वसेत् ८। गतं निसष्टद्वारम, इदानीं 'दीहखद्धं पडिच्छंति'[गा.१९०५] इत्येतद्व्याख्यानार्थमाह- असढो इत्यादि, अशठः पुनः न केवलमुत्कर्षतस्त्रीणि दिनानि किन्तु चिरमपि प्रभूतकालमपि एभिः वक्ष्यमाणैः कारणैर्यतनया तिष्ठेत् ॥ १९६३ ॥
तान्येव कारणान्याह
|
गाथा १९५९-१९६३ मार्गे संवसने
यतना
८८१ (B)
For Private and Personal Use Only