SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८८१ (A) शक्तिरस्ति तर्हि तस्य प्रतिहननं कर्तव्यं यथा स स्वग्राहं मुञ्चति। अथ न विद्यते तादृशी शक्तिस्तर्हि ध्यानं तथा ध्यायति यथा तद्वचो न शृणोति। यदि वा अज्झयणत्ति यथाच्छन्दप्रज्ञापनाप्रवणमध्ययनं परावर्तयति यथा स ब्रूते-मा मां नाशयेति। कण्णत्ति तस्य यथास्वच्छन्दं देशनां कुर्वतः कर्णौ निजौ स्थगयति येन देशनां न शृणोति, दूरतरं वा तिष्ठति। अथ दूरतरस्थानस्थितोऽपि तद्देशनां निशमयति, न च निद्रा समागच्छति, ततः स यथाच्छन्दो वक्तव्यः, यथा- शृणु किमपि आहरणम्। ततो यत्तस्यापूर्वं तदाहरणं कथनीयम्। गहिएणंति गहीतेनाऽऽत्मीयोपकरणेन ॥ १९६१ ॥ एतदेव युक्त्या द्रढयति गाथा जह कारणेऽतिगमणं, दिलृ एमेव सेसगा चउरो । १९५९-१९६३ | मार्गे संवसने ओमे असंथरंते, आयारे वइयमादीहिं ॥ १९६२॥ यतना यथा कारणे कारणवशतः अतिगमनं निर्गमनं दृष्टम्, एवमेव तथा कारणवशतः शेषाणि || ८८१ (A) अपि चत्वारि द्वाराण्यसंविग्ने निवेदना यतना इत्येवमादीनि दृष्टानि तथा च आचारे For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy