________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८८० (B)
--
ठिय निसिय तुयट्टे वा, गहिया-ऽगहिए य जग्ग सुवणं वा । पासत्थादीणेवं, निइए मोत्तुं अपरिभुत्ते ॥ १९६० ॥
पार्श्वस्थादीनाम् उपाश्रयेषु गहियत्ति गृहीतोपकरणः स्थित उर्ध्वं स्थितो वसेत्, यद्येवं स्थातुं न शक्नोति ततो गृहीतोपकरणः एव निषधोपगतो जाग्रत्तिष्ठेत्। तथाप्यशक्नुवन् गृहीतोपकरणः त्वग्वृत्तो जाग्रदवतिष्ठेत। अथ त्रिष्वप्येतेषु यदि कथमपि प्रचलाया आशङ्का, तदा 'मा पात्रादिभङ्गः स्याद्' इत्युपकरणं पार्श्वे निक्षिप्यागृहीतोपकरणो यथासमाधि स्थितो निषण्णस्त्वग्वृत्तो वा जाग्रत्तिष्ठेत् । अथ जागरणं कर्तुं न शक्नोति तत आह- स्वपन् वा गृहीतोपकरणोऽगृहीतोपकरणो वा यथासमाधि कुर्यात्। एवं यतना पार्श्वस्थादीनामुपाश्र द्रष्टव्या। नैत्यिके नित्यवास्युपाश्रये नित्यवासिपरिभुक्तान् प्रदेशान् मुक्त्वा अपरिभुक्ते प्रदेशे
गाथा
४१९५९-१९६३ उपकरणं निक्षिप्य यथासमाधि जाग्रत् स्वपन् वा वसेत् ॥१९६०॥
मार्गे संवसने एमेव अहाछंदे, पडिहणणा झाण अज्झयण कण्णा । ठाणठितो वि निसामे, सुण आहरणं च गहिएणं ॥ १९६१ ॥ ४८८० (B) एवमेव पार्श्वस्थादिगतेनैव प्रकारेण यथाच्छन्देऽपि यतना कर्तव्या। नवरम्- यदि |
यतना
For Private and Personal Use Only