SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८७९ (B) ܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयेऽपि । तत्र पुनस्तिष्ठति कालचारिणीषु संयतीषु । एवमेव शेषेष्वपि भङ्गेषु वसति । किमुक्तं भवति ? येष्वप्यन्येषु भङ्गेषु संयतीसहित इति पदं तेष्वपि कालचारिणीभिः संयतीभिः सहितेषु वस्तव्यम्, नाकालचारिणीभिरिति । तथा उत्क्रमकरणमपि अकालचारिणीभिः सहितत्वमपि पूजयामः उपादेयतया प्रशंसयामः । कथम् ? इति चेत्, उच्यते, यस्मिन् भङ्गे शय्या-भक्तोपधयः समुदिता भङ्गत एक-द्विका वाऽशुद्धास्तत्र यद्यकाचारियो भक्तं पानं वा दत्त्वा गृहीत्वा वा तत्क्षणमेव व्रजन्ति, न पुनरागच्छन्ति, स्वाध्यायं वा कृत्व स्वकाले गच्छन्ति तत्र स्थातव्यम्, प्रायो दोषाभावादिति ॥ १९५७ ॥ एतदेव स्पष्टतरमाह - सेज्जं सोहे१ उवहिर, भत्तं सोहेइ३ संजतीरहिती४ । पढमो बितिओ संजइ-सहिओ पुण कालचारिणितो ॥ १९५८ ॥ शय्यां शोधयति उपधिं शोधयति भक्तं शोधयति संयतीरहितश्चेति प्रथमो भङ्गः । १. वा. शुद्धा पु. प्रे. ॥। २. ला । सहितो तातो पुण-पु. प्रे. ॥ For Private and Personal Use Only गाथा १९५४-१९५८ मार्गे वसन * सामाचारी ८७९ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy