SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८७८ (A) संयतीरहिते, तदभावे संयतीसहितेऽपि। ताश्च संयत्यो द्विधा- कालचारिण्योऽकालचारिण्यश्च । तत्र याः पाक्षिकादिष्वागच्छन्ति ताः कालचारिण्यः, तद्व्यतिरेकेणागच्छन्त्योऽकालचारिण्यः । ता अप्यकालचारिण्यः स्वाध्यायनिमित्तमभीक्ष्णं चशब्दाद् भक्तपानं दातुं ग्रहीतुं वा कन्दर्पार्थं वा। तत्राकालचारिणीषु बहवो दोषाः, कालचारिणीष्वल्पतरा इति। संयतीरहिताभावे कालचारिणीभिः संयतीभिः सहिते वस्तव्यम् ॥ १९५३ ।। एतदेव सप्रपञ्चमभिधातुकाम आहसिज्जुवहि-भत्तसुद्धे, संजइरहिए य भंगसोलस उ । संजइअकालचारिणी-सहिए बहुदोसला वसही ॥ १९५४ ॥ शय्याशुद्ध उपधिशुद्धो भक्तशुद्धः संयतीरहित इति चतुर्षु पदेषु सप्रतिपक्षेषु भङ्गाः | षोडश। तद्यथा शय्याशुद्धः उपधिशुद्धः भक्तशुद्धः संयतीरहित इति प्रथमः । शय्याशुद्ध: उपधिशुद्धो भक्तशुद्धः संयतीसहित इति द्वितीयः इत्यादि। प्रस्तारश्च अयम्___एतेषु च षोडशसु भङ्गेषु मध्ये यत्र यत्र संयत्यस्तत्र तत्र कालचारिणीभिः संयतीभिः सहिते संयतैः वस्तव्यम्, नाकालचारिणीभिः। यत आह- संयतीभिरकालचारिणीभिः गाथा १९५४-१९५८ मार्गे वसनसामाचारी ८७८ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy