________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् |
चतुर्थ उद्देशकः ८७७ (B)
सहिए वा अंतो बहि, अंतो [ वा ] वीसु घरकुडीए वा । तस्सासति निइयादिसु, वसेज्ज उ इमाए जयणाए ॥ १९५२ ॥
स्त्रीरहितस्य श्रावकगृहस्याभावे सहिते वा स्त्रीसहिते वा श्रावकगृहे। तस्य गृहस्यान्तर्बहिर्वा विविक्ते प्रदेशे वसेत्, अन्यथा प्रायश्चित्तं चतुर्गरु। तस्याप्यभावे तस्य श्रावकगृहस्य बहि: पुरतः पृष्ठतः पार्श्वतो वा यदि वाऽन्तर्गृहस्य कुटी समस्ति[ततः]तस्यां वसेत्। तस्यापि कुटीरकस्यासत्यभावे नैत्यिकादिषु, आदिशब्दात् पार्श्वस्थादिपरिग्रहः, अनया वक्ष्यमाणया यतनया वसेत्। एतावता मूलद्वारगाथोपन्यस्तं निवेदनाद्वारमगमत्। यतनाद्वारमापतितम् ॥१९५२॥
इदानीं तामेव यतनामाहनिइयादि उवहि भत्ते, सेजा सुद्धा य उत्तरे मूले । संजइरहिए काले, अकाले सज्झायऽभिक्खं च ॥ १९५३ ॥
ये नैत्यिकादय उपधौ भक्ते शय्यायां च उत्तरगुणैर्मूलगुणैर्वा शुद्धाः। किमुक्तं भवति? | ये उत्तरगुणैर्मूलगुणैर्वा शुद्धां शय्यां गवेषयन्ति शुद्धं भक्तं शुद्धमुपधिं, तेषु वसेत्। तत्रापि
गाथा १९४७-१९५३
मार्गे यतना
८७७ (B)
For Private and Personal Use Only