________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८७७ (A)
एवम् अनया यतनया निवेद्य न तु नैव ग्रामाद् बहिर्दूरं वसेत्, किन्तु ग्रामस्य समीपे वसेद् । अथ च बहिः स्तेनादिकृताः प्रत्यपायाः अनर्था भवेयुस्ततः तथैव पूर्वोक्तप्रकारेणैव निवेद्य शून्यगृहादिषु वसति, आदिशब्दात् श्रावकगृहादिपरिग्रहः ॥ १९५० ॥
एतदेव भावयतिअहुणुव्वासिय सकवाड निब्बिले निच्चले वसति सुण्णे । तस्सासइ सण्णिघरे, इत्थीरहिते वसेज्जा वा ॥ १९५१ ॥
अधुना- साम्प्रतमुद्वासितमधुनोद्वासितम्। सकपाटं- कपाटसहितम्, अन्यथा स्तेनादिप्रवेशसम्भवात्। निर्बिलं-बिलरहितम्, अन्यथा सदिसम्भवात्। निश्चलं-न जराजीर्णतया पतितुं प्रवृत्तम्। अमीषां च चतुर्णां पदानां षोडशभङ्गाः, 'तेषु प्रथमो भङ्गः शुद्धः, शेषा अशुद्धाः। तत आह- इत्थम्भूते शून्ये शून्यगृहे वसति। तस्य शून्यगृहस्य असति अभावे संज्ञिगृहे श्रावकगृहे । सोऽपि श्रावको द्विधा सम्भवति-सस्त्रीक: स्त्रीरहितो वा । तत्र स्त्रीरहिते वसेत् ॥१९५१॥
गाथा |१९४७-१९५३
मार्गे यतना
८७७ (A)
१. तत्र प्र. वा. मो. पु. मु. सं. ॥
For Private and Personal Use Only