________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् |
चतुर्थ
उद्देशकः | ८७६ (A)|
गेलण्णे न काहिंती, कोहेणं जं च पाविहिती तत्थ। तम्हा उ निवेएज्जा, जयणाए तेसिमाए उ ॥ १९४७ ॥
अनिवेदने सति स कदाचित् ग्लानो जायते। ग्लान्ये सति 'नास्माकं किमपि तेन निवेदितम्' इति क्रोधेन न किमपि ग्लानकृत्यं करिष्यन्ति । गृहस्थाश्च तं तथाभूतं ग्लानं दृष्ट्वा तेषां नैत्यिकादीनां निवेदयेयुः यथा- युष्मदीयो ग्लानोऽसङ्ग्राहको वर्तते । ततस्ते ब्रूयुर्मन्येरन् वा- एषोऽस्मदीयो न भवति, यदि भवेत्तस्माकमुपाश्रयेऽतिगच्छेद्, निवेदयेद्वा। एवं यत्र ग्लानत्वे अग्लानत्वे वा आरक्षकादिग्रहणं तत्र यदन) प्राप्स्यति संयमविराधनात्मकमात्मविराधनात्मकं वा तत्सर्वमनिवेदनानिमित्तम्। तस्मात्तेषामनया वक्ष्यमाणया यतनया निवेदयेत्॥ १९४७॥
तामेव यतनामाहतुब्भं पिहेसि दारं, उस्सूरोत्ति य जुताए एवं तु । न य नज्जइ सत्थो वी, चलिहिइं किं केत्तियं वेलं? ॥ १९४८ ॥
गाथा १९४७-१९५३
मार्गे यतना
८७६ (A)
१.त् तदा ह्यस्माकमुपाश्रये तिष्ठेद् निवे. वा. मो. पु. सं. ॥
For Private and Personal Use Only