________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८७५ (B)
त्वगवर्तनं दीर्घकायप्रसारणं तेषु गृहीतेनागृहीतेन वा उपकरणेन जागरणं कर्तव्यम्। एष द्वारगाथासक्षेपार्थः ॥ १९४५ ॥
व्यासार्थं त्वभिधित्सुः प्रथमतो बहिर्ग्रामेति व्याख्यानयतिवसही समणुण्णाऽसइ, गामबहिं ठाइ सो निवेदेउं । अनिवेदियम्मि लहुओ, आणाइविराहणा चेव ॥ १९४६ ॥ समनोग्नानां संविग्नानां वसतेः असति अभावे ग्रामबहिस्तिष्ठति, न पुन त्यिकादिष्वसंविग्नेषु प्रवेष्टव्यम्, प्रागुक्तप्रायश्चित्तभावात्। स च बहिस्तिष्ठति तेषां नैत्यिकादीनां वा संविग्नानां वा अमनोज्ञानां निवेद्य कथयित्वा। यदि पुनर्न निवदयति ततोऽनिवेदिते प्रायश्चित्तं लघुको मासः, आज्ञादिविराधनाश्च दोषाः आज्ञाविराधना, आदिग्रहणादात्मविराधना संयमविराधना च परिगृह्यते। तथाहीयं भगवदाज्ञा- तेषां निवेद्य बहिर्वस्तव्यमनिवेदनायामाज्ञालोपः॥१९४६ ॥
गाथा |१९४३-१९४६
मार्गे विधिः
८७५ (B)
आत्मविराधनां संयमविराधनां चाऽऽह१. ग्रामाद् बहिवा. मो. पु. सं. मु.॥
For Private and Personal Use Only