________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८७४ (A)
इह मार्गे गच्छता अपान्तराले संविग्नसुमनोज्ञानां वसतौ वस्तव्यम् । तदभावे नैत्यिकादीन संविग्नानां वा अमनोज्ञानां निवेद्यान्यस्यां वसतौ स्थातव्यम्। यदि पुनः नैत्यिको नित्यवासी, आदिशब्दात्पार्श्वस्थादिपरिग्रहः । तस्मिन् नैत्यादिके यथाच्छन्दवर्जिते प्रविशति, यदि वा तेभ्यः किमपि भक्तादिकं ददाति, अथवा तेभ्यो गृह्णाति तदा प्रवेशने दाने ग्रहणे च प्रत्येकं चत्वारो लघुकाः। भुंजणे गुरुगा इति, अथ तैः सह भुङ्क्ते तदा भोजने चत्वारो गुरुकाः। अथ नैत्यिकादिसङ्घाटं याचित्वा तेन सह हिण्डते ततः सङ्घाटेन हिण्डने लघुको मासः। जं : चऽण्णमिति, यच्च तेन सङ्घाटकेन हिण्डमानोऽकल्पिकग्रहणतस्तदास्वादनेन लाम्पट्यतः सेविष्यते तदपि च प्रायश्चित्तं प्राप्नोति ॥ १९४२ ॥ तदेवं यथाच्छन्दवर्जिते नैत्यिकादौ प्रवेशादिषु प्रायश्चित्तमुक्तम्। अधुना यथाच्छन्दे तदाह
गाथा
१९४३-१९४६ एए चेव य गुरुगा, पच्छित्ता होंति ऊ अहाच्छंदे ।
मार्गे अमणुण्णेसुं मासो, संभुंजणे होंति चउगुरुगा ॥ १९४३ ॥ दारं ४। । विधिः
एतान्येव प्रायश्चित्तानि यथाच्छन्दे गुरुकानि भवन्ति । तद्यथा-प्रवेशे दाने ग्रहणे भोजने | ८७४ (A) १. शने ग्रहणे दाने च प्र० वा. मो. पु. सं.॥
For Private and Personal Use Only