SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् चतुर्थ उद्देशकः ८७३ (ATM वृषभशिक्षायाः प्रत्यावर्तनस्य वा अभावे पाक्षिके चातुर्मासिके सांवत्सरिके वा यावत् कुलस्थविराणां गणस्थविराणां सङ्घस्थविराणां वा आगमस्तावत् प्रतीक्षते। कुलस्थविरादीनां चागमे तेषां निवेदना क्रियते। ततस्ते स्थविरा येषु स्थानेषु ये विप्रमाद्यन्ति तेषु स्थानेषु तान् प्रतिचोदयन्ति। ते च प्रतिचोदिता यदि स्थितास्ततस्तेषु चोदितस्थितेषु सत्सु स । सशिष्यपरिवारस्तत्रैव स्थानं करोति । स्थितेन च तेन द्विविधाऽपि शिक्षा शिक्षणीया। अथ ते चोदिताः सन्तो न स्थितास्ततस्तेष्वस्थितेषु ततो गच्छान्निर्गमो भणितस्तीर्थकर-गणधरैः ॥ १९३९॥ गतमागमनद्वारम्, पतितं निर्गमद्वारम्, अतस्तदेव भावयतिकप्पसमत्ते विहरइ, असमत्ते जत्थ हुँति आसन्ना । साहम्मि तहिं गच्छे, असतीए ताहे दूरं पि ॥ १९४० ॥ यदि आचारप्रकल्पः सूत्रतोऽर्थतश्च समाप्तो भवति ततस्तस्मिन् कल्पे आचारप्रकल्पे समाप्ते स्वयं यथाविहारक्रमं विहरति । अथ नाद्यापि समाप्त आचारप्रकल्पस्तर्हि तस्मिन्नसमाप्ते यत्र यस्यां दिशि आसन्नाः अनन्तरक्षेत्रवर्तिनः साधर्मिका: संविग्रसाम्भोगिकाः भवन्ति ܀܀܀܀܀܀܀܀܀ गाथा १९३६-१९४२ गच्छे गमनविधि: ८७३ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy