SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८७२ (B) तस्मिन्नाचार्ये पुनर्विषीदति चोदनां शिक्षा इतरे साधवः कथं गृह्णीयुः ? नैव गृह्णीयुरिति भावः, आचार्यप्रतिभयाभावात्। अतः प्रथम-तृतीयौ भनौ पापतरौ, न द्वितीय इति ॥ १९३७॥ आसन्नठिएसु उ उज्जएसु जहति सहसा न तं गच्छं। मा दूसेज अदुढे, दूरतरं वा पणासेज्जा ॥ १९३८ ॥ यद्यपि नाम आसन्ने प्रत्यासन्ने प्रदेशे उद्यतविहारिणः स्थिता विद्यन्ते तथापि : तेष्वासन्नस्थितेषूद्यतेषु सहसा न तं गच्छं जहाति परित्यजति। किं कारणम्? इति चेद् अत आह- मा अदुष्टान् दूषयेद् गच्छः। किमुक्तं भवति ? -ये न विषीदन्ति तेऽपि सीदत्साधुसंसर्गतो मा विषीदेयुरिति, येऽपि सीदन्ति तेऽपि सीदत्साधुसंसर्गतो दूरतरं निर्गततरं गाथा 'प्रणश्येयुः' विषीदेयुः ॥ १९३८॥ |१९३६-१९४२ गच्छे तदेवं वृषभचोदनं भाषितम् । इदानीं स्थविरागमनं भावयति गमनविधिः कुलथेरादी आगम, चोयणया जेसु विप्पमायंति। ८७२ (B) चोदियठितेसु ठाणं, अठिएसु य निग्गमो भणितो ॥ १९३९ ॥ दारं ३ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy