________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८७२ (A)|
तानेवाहगच्छो गणी य सीयइ१, बिइए न गणी२ तइए न वि गच्छा३। जत्थ गणी अवसीयति, सो पावतरो, न उण गच्छो ॥ १९३६ ॥
गच्छः सीदति गणी चेति प्रथमो भङ्गः१। गच्छः सीदति न गणी द्वितीय: २। न गच्छो सीदति किन्तु गणीति तृतीयः ३ । न गच्छो नापि गणीति चतुर्थः ४। तथा चाऽऽहद्वितीये भङ्गे गणी न सीदति, तृतीये न गच्छः । चतुर्थः सीदनमधिकृत्य शून्य इति नोपात्तः। तत्राऽऽद्येषु त्रिषु भङ्गकेषु मध्ये यत्र प्रथमे तृतीये वा गणी [ अवसीदति ] स पापतरः। यत्र पुनर्गच्छः सीदति न गणी नासौ द्वितीयः पापतरः ॥ १९३६ ॥
किं कारणम् ? इति चेत्, अत आहआयरिए जयमाणे, चोएउं जे सुहं हवइ गच्छो। तम्मि उ विसीयमाणे, चोयणमियरे कहं गेण्हे ? ॥ १९३७ ॥ आचार्ये यतमाने गच्छ: सुखेन चोदयितुं शक्यमानो भवति, आचार्यस्य प्रतिभयात् ।
गाथा
१९३६-१९४२
गच्छे गमनविधि:
८७२ (A)
For Private and Personal Use Only