________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामाचारी हापयन्ति। भासति भाषायामसमिता भाषन्ते। "एकग्रहणे तज्जातीयग्रहणम्' इति न्यायात् शेषास्वपि समितिष्वसमिताः। गिहिमत्तत्ति गृहिमात्रकेषु पटलकादिष्वानीतं गृह्णन्ति । सेज्जायरेत्ति शय्यातरपिण्डं भुञ्जते ॥१९३३ ।।
श्री व्यवहार
सूत्रम् | चतुर्थ उद्देशकः ८७१ (A)
एमाई सीयंते वसभा, चोएंति चिट्ठति ठियम्मि । असती थेरागमणं, अच्छति ताहे पडिच्छंतो ॥ १९३४ ॥
एवमादिषु, आदिशब्दादुद्गमादिपरिग्रहः, सीदतः साधून् गुरुं वा वृषभाश्चोदयन्ति | शिक्षयन्ति। तत्र यदि चोदितः साधुवर्गो गुरुर्वा तिष्ठति ततस्तस्मिन् स्थिते सोऽपि सशिष्यपरिवार आगन्तुकस्तिष्ठति। असती इत्यादि, असन् शिक्षायाः पुनःप्रत्यावर्तनस्य वा अभावो यदि ततो यावत् पाक्षिके चातुर्मासिके संवत्सरे वा कुलस्थविराणां गणस्थविराणां सङ्घस्थविराणां वाऽऽगमनं भवति तावत्तान्प्रतीक्षमाण आस्ते। तेषु च कुलादिस्थविरेषु समागतेषु निवेदयति तथाप्यतिष्ठत्स ततो निर्गमनम् ॥१९३४॥ १. पटलिका. वा. पु. मु.॥
गाथा १९३१-१९३५
उपसम्पद योग्यगच्छ:
८७१ (A)
For Private and Personal Use Only