________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः
८६९ (B)
अथवा वैयावृत्त्यफलं श्रद्दधाना अपि खग्गूडत्वेनैवं मन्येरन्- एवं जानन्तो यूयं किं पूर्वं । नावर्तिध्वम् ? इति ॥ १९२८॥
सम्प्रति 'गोवृष इव गाः' इति दृष्टान्तं भावयतिपउरतण-पाणियाइं, वणाई रहियाई खुड्डजंतूहिं । नेइ विसो गोणीओ, जाणइ य उवट्ठकालं च ॥ १९२९ ॥
वृष: बलीवर्दो गा वनानि प्रचुरतृण-पानीयानि तथा क्षुद्रजन्तुभिः क्षुद्रप्राणिभी रहितानि नयति, जानाति च उपस्थानकालम् अभ्यागमनवेलाम्, ज्ञात्वा च स्वस्थानमानयति, एवमभिनवस्थापित आचार्यो गच्छं स्वस्वव्यापारे नियोजयन् परिपालयति ॥१९२९ ॥
अत्रैव दृष्टान्तान्तरमाहजह गयकुलसंभूतो, गिरिकंदरविसमकडय-दुग्गेसु । परिवहति अपरितंतो, निययसरीरुग्गते दंते ॥ १९३० ॥
गाथा |१९२५-१९३० गच्छव्यवस्था
८६९ (B)
For Private and Personal Use Only