SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार x सूत्रम् चतुर्थ उद्देशकः | ८६९ (A) X एतेषु उपकरणादिषु कृतिकर्मकरणपर्यवसानेषु स्थानेषु यः पूर्वमस्थापितोऽपि गणधरपदे | समुद्यत आसीत् स गणधरपदे स्थापितोऽप्येतेषु स्थानेषु न विषीदति, कृतकरणत्वात्। स इत्थम्भूत एतेषु स्थानेषु परान्, गाथायां षष्ठी द्वितीयार्थे प्राकृतत्वात् सम्बन्धे वा, यथा 'माषाणामश्नीयात्' इत्यत्र स्थापयितुमलम् ॥ १९२७॥ एवं ठितो ठवेइ, अप्पाण परस्स गोविसो गावो । अठितो न ठवेइ परं, न य तं ठवियं चिरं होइ ॥ १९२८ ॥ एवं पूर्वं गणधरपदे अस्थापित एतेषूपकरणादिस्थानेषु स्थितः सन् आत्मनः परस्य चैतेषु स्थानेषु स्थापयति स्थापयिता भवति, गोवृष इव गाः स्वस्थाने। यः पुनः पूर्वमेतेषु स्थानेषु | अस्थितः स परम् उपलक्षणमेतत्, आत्मानं च न स्थापयति, स्वयं तत्राव्यामृतत्वात् । न च तत्स्थापितं चिरं भवति। कस्मात् ? इति चेत्, उच्यते-स यदाऽन्यानुपकरणादिष्वनुद्यच्छतः शिक्षयति, यथा- सति बले किं यूयं स्वशक्तया नोद्यच्छथ? अनुद्यच्छन्तो हि वैयावृत्त्यफलाद् भ्रश्यथ । तदा ते चिन्तयेयुः- यदि वैयावृत्त्यफलमभविष्यत्ततस्त्वमप्येतेषु स्थानेषूद्यस्यथा इति। गाथा १९२५-१९३० गच्छव्यवस्था स ८६९ (A) ܀܀ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy