________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८६५ (A)
܀܀܀܀܀܀
www.kobatirth.org
एतेषु स्थानेषु तपः प्रभृतिषु स्वयमाचार्या हीयमाना न दृश्यन्ते, शिष्यास्तु केचित्सीदन्ति, तान् सीदतो यत्राऽऽचार्या श्चोदयन्ति शिक्षयन्ति तं गच्छं निवासयोग्यतया आचार्याः प्रशंसन्ति । यत्र पुनराचार्या उदासीना मध्यस्था: सामाचारी हापयत उपेक्षन्ते न तं प्रशंसन्त्याचार्याः, नासौ गच्छ उपसम्पदनीय इत्यर्थः ॥ १९१४॥
किं कारणम् ? अत आह—
आयरिय-उवज्झाया, नाणुण्णाया जिणेहिं सिप्पट्ठा ।
Acharya Shri Kailassagarsuri Gyanmandir
णाणे चरणे जोगा वहा उ तो ते अणुण्णाया ॥ १९१५ ॥
आचार्या उपाध्यायाश्च जिनैस्तीर्थकृद्भिर्न शिल्पार्थाः शिल्पशिक्षणनिमित्तमनुज्ञाताः । कैः कारणैः पुनरनुज्ञाताः ? तत आह- ज्ञाने चरणे च ये योगास्तेषामावहाः प्रापकाः यतो भविष्यन्ति ततस्ते अनुज्ञाताः, ज्ञान- चरणस्फातिनिमित्तमनुज्ञाता इत्यर्थः ॥१९१५॥ अपि चेदृशा आचार्योपाध्याया अनुज्ञाताः -
नाण चरणे निउत्ता, जा पुव्वपरूविया चरणसेढी । सुहसीलठाणविजढे, निच्चं सिक्खावणाकुसला ॥ १९१६ ॥ दारं १ ॥
१. हापयति- मु.। हापयन्त - C । हापयन्ति- मु.
For Private and Personal Use Only
गाथा
१९१०-१९१७ ★ उपसम्पद्योग्यः गच्छः
܀܀܀܀܀
८६५ (A)