________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
वाशब्दः प्रकारान्तरोपप्रदर्शने । पञ्चमहाव्रतानि। अथवा ज्ञानं दर्शनं चारित्रं तपो विनय इति पञ्च। यदि वा पञ्चविधा ज्ञान-दर्शन-चारित्र-तपो-वैयावृत्त्यभेदतः पञ्चप्रकारा उपसम्पत् पञ्च, तैः पञ्चभिर्विशुद्धः पञ्चविशुद्धः ॥ १९१२ ॥
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८६४ (B)
सुशिक्षामाहसोभणसिक्ख सुसिक्खा, सा पुण आसेवणे य गहणे य । दुविहाए वि न हाणी, जत्थ उ तहियं निवासो उ ॥ १९१३ ॥
शोभना शिक्षा सुशिक्षा। सा द्विविधा, तद्यथा- आसेवने ग्रहणे च। आसेवनं प्रत्युपेक्षणादेः सामाचार्याः, ग्रहणमागमस्य। एतस्यां द्विविधायामपि यत्र न हानिस्तत्र निवास: कल्पते कर्तुम् ॥१९१३ ॥
एएसुं ठाणेसुं, सीयंते चोदयंति आयरिया । हावेंति उदासीणा, न तं पसंसंति आयरिया ॥ १९१४ ॥
गाथा १९१०-१९१७ उपसम्पद्योग्यः
गच्छः
८६४ (B)
For Private and Personal Use Only