________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८६३ (A)
साम्प्रतमेनामेव विवरीषुः प्रथमतः ‘पारिच्छहाणि' त्ति द्वारमाह
पासत्थादिविरहितो, काहियमाईहि वा वि दोसेहिं । संविग्गमपरितंतो, साहम्मियवच्छलो जो उ ॥ १९०६ ॥
अपान्तराले पार्श्वस्थादिविरहितः पार्श्वस्थादिसंसर्गिविप्रमुक्तः। काथिकादिभिर्वा भावप्रधानोऽयं निर्देशः, काथिकत्वादिभिर्वा दोषैर्विप्रमुक्तः । तथा संविग्नोऽपरित्रान्तोऽपरिश्रान्तः, सामाचार्यामिति गम्यते। तथा यः साधर्मिकवत्सलः प्रवचनलिङ्गसाधर्मिकवात्सल्यपरायणः सः ॥ १९०६ ॥
अब्भुजएसु ठाणं, परिच्छिउं हीयमाणए मोत्तुं । केसु पदेसुं हाणी, वुड्डी वा? तं निसामेहि ॥ १९०७ ॥
अभ्युद्यतानामुद्यतविहारिणां स्थानं परीक्ष्य, गाथायां सप्तमी षष्ठ्यर्थे, हीयमानकान् मुक्त्वा तिष्ठेत् । अथ केषु पदेषु हानिर्वृद्धिा ? सूरिराह- तदेतत्कथ्यमानं निशामय ॥ १९०७॥
गाथा १९०४-१९०९ निवासयोग्यगच्छस्वरूपम्
८६३ (A)
For Private and Personal Use Only