________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तान्येवाह
श्री
व्यवहार
सूत्रम्
पारिच्छहाणि१ असती२ आगमणं३ निग्गमो४ असंविग्गे५ । निवेयण६ जयणा७ निसटुं८ दीहखद्धं पडिच्छंति९ ॥ १९०५ ॥ दारगाहा।।
चतुर्थ उद्देशकः
परीक्षाहाणीति हानि-वृद्धिविषये कर्तव्या, यत्र ज्ञानादीनां हानिस्तत्र न वस्तव्यम,
८६२ (B)|
अन्यत्र वस्तव्यमिति भावः। असतित्ति यस्य समीपं गत्वोपसम्पन्नस्तस्मिन् सापेक्षे निरपेक्षे वा कालगतत्वेनासति योऽन्यः स्थापितस्तस्य सकाशे स्थातव्यम् । तस्मिन्नपि सीदति यावत्कुलादिस्थविराणामागमनं तावत्प्रतीक्षणीयम्। तैरपि प्रतिचोदने कृते सीदति निर्गमो विधेयः । गच्छता च संविग्नाभावे बहिर्वस्तव्यम्। असंविग्ने निवेदना कर्तव्या । बहिर्वसत्यभावे तेष्वप्यसंविग्नेषु नवरं यतना विधेया। तथा संविग्नेषु असंविग्नेषु वा संवसनं निसृष्टमनुज्ञातमेकरात्रम्, उत्कर्षतस्त्रीणि दिनानि । वर्षादिकारणतः पुनर्यतनया दीहखद्धमपि प्रचुरमपि दीर्घकालं प्रतीक्षते। एष द्वारगाथासक्षेपार्थः ॥ १९०५ ।।
गाथा १९०४-१९०९ निवासयोग्यगच्छस्वरूपम्
८६२ (B)
१. विषया क' वा. मो. पु. मु.॥
For Private and Personal Use Only