________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
उपसम्पदनाh अविद्यमाने भवत्यन्यत्र गन्तव्यम्। तत्र च गमने शुद्धाशुद्धपदे संयोगतश्चतुर्भङ्गी भवति ज्ञातव्या। तद्यथा-निर्गमने शुद्धो गमने च शुद्ध इति प्रथम:१, निर्गमने शुद्धो गमनेऽशद्ध इति द्वितीय:२, निर्गमनेऽशुद्धो गमने शुद्ध इति तृतीय:३, निर्गमनेऽशुद्धो गमने चाशुद्ध इति चतुर्थ:४। गाथायां 'चउभंगो' इति पुंस्त्वनिर्देशः प्राकृतत्वात् ॥ १८९९ ।।
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८६१ (A)
तत्र प्रथमभङ्गव्याख्यानार्थमाहअसतीए वायगस्सा, जं वा तत्थऽस्थि तम्मि गहियम्मि । संघाडो दायव्वो, एगो वा असतीए एगागी ॥ १९०० ॥
यः कालिकमुत्कालिकं दृष्टिवादं वा वाचयति स नास्ति ततस्तस्य वाचकस्य असति अभावे, अथवा यत्तत्रास्ति श्रुतं तत्सर्वं गृहीतं ततस्तस्मिन् गृहीतेऽन्यसूत्राद्यर्थमन्यत्र व्रजति, तस्य च व्रजत एक: सड्याटको दातव्यः। असति सङ्घाटकाभावे एकाकी व्रजेत् ।। १९०० ।।
अह सव्वेसिं तेसिं, नत्थि उ उवसंपयारिहो अन्नो । सव्वे घेत्तुं गमणं, जत्तियमेत्ता व इच्छंति ॥ १९०१ ॥
गाथा १८९६-१९०३ निर्गमने चतुर्भङ्गी
८६१ (A)
For Private and Personal Use Only