SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ततः श्रेष्ठिकृतविज्ञप्तिकानन्तरं ते द्वे अपि पूजयित्वा राज्ञा विसृष्टे। सदृशकुले दानम् विवाहिते इत्यर्थः । ततस्तयोर्द्वयोरपि विपुला भोगा दत्ताः । एवमेव अनेनैव प्रकारेण उत्तरेऽपि लोकोत्तरेऽपि अव्यक्तस्य रात्रिन्दिवैरुपमा। इयमत्र भावना- यदि तावल्लौकिका अपि यश:संरक्षणनिमित्तमात्मानमन्यत्रोपनिक्षिपन्ति, ततः सुतरां लोकोत्तरिकै: साधुभिः संयमयश:संरक्षणनिमित्तमात्माऽन्यगणे निक्षेप्तव्यः। स चाऽव्यक्तो वयसा, ततो यावद्भिरहोरात्रैर्वयसा व्यक्तीभवति तावन्तं कालं तत्रान्यगणनिश्रायां तिष्ठति ॥ १८९१ ॥ . ८५८ (A) . .. कथं पुनरात्मानं गणं चोपनिक्षिपति तत आहएते अहं च तुब्भं,वत्तीभूतो सयं तु धारेइ । जसपच्चया उराला, मोक्खसुहं चेव उत्तरिए ॥ १८९२ ॥ एते मदीयाः साधवोऽहं च युष्माकम्, एवं चोपनिक्षिप्य तावत्तत्र तिष्ठति यावद् व्यक्तो | जायते । ततो व्यक्तीभूतः सन् तस्मान्निर्गत्य स स्वयमेव गणं धारयति। एवं च कुर्वतस्तस्य फलमिह लोके उदारा यशःप्रत्ययाः, अवदातं यशोऽवदाताश्च लोके प्रत्ययाः संयमनैर्मल्य१. शीलसं• B3 ॥ गाथा १८९२-१८९५ पदस्थापनयोग्यस्य परीक्षा ८५८ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy