________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५७ (B)
इति एवं भवत्विति अभ्युपगते तासां तत्र संवसन्तीनामथ कियत्कालातिक्रमेण या रक्षणं तासां करोति सा महत्तरिका कालगता ॥ १८८९ ॥
सविकारातो दर्से सेट्ठिसुया विण्णवेइ रायाणं । महयरि दाण निग्गह, वणियागम रायविण्णवणं ॥ १८९० ॥
महत्तरिकाकालगमनानन्तरम् ताः कन्यका: सविकारा अभूवन्। ततस्ताः सविकाराः श्रेष्ठिसुता दृष्ट्वा राजानं विज्ञपयति- अन्यां महत्तरिक प्रयच्छत। दत्ता राज्ञा । तया च महत्तरिकया निग्गहत्ति कन्याः सविकारा उपलभ्य खरण्टिताः। एवं तासां तिष्ठन्तीनां वणियागमत्ति स देशान्तरगतो वणिक् समागत: [राय ] विण्णवणं इति राज्ञो विज्ञपनमकार्षीत् । यथा- 'देव! नयामि निजपुत्रिकामिति' || १८९० ॥
पूएऊण विसज्जण, सरिसकुले दाण दोण्हवी भोगो । एमेव उत्तरम्मि वि, अवत्त राइंदिएहुवमा ॥ १८९१ ।।
गाथा (१८८४-१८९१
उपसम्प
दनाउनहें
| उपनिक्षेपादिः
८५७ (B)
For Private and Personal Use Only