________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८५६ (A)
इह "नत्थि या इत्थ अण्णे केइ उवसंपज्जणारिहे" इत्याद्युक्तम्, तत्र यद्यपि स * गीतार्थस्तरुणः समर्थश्चेन्द्रियनोइन्द्रियाणां निग्रहं कर्तुं तथापि तेनान्यो गणो निश्रयितव्यः, निश्रय्य च परप्रत्ययनिमित्तं तत्रोपनिक्षेपः कर्तव्यः। अत्र लौकिको दृष्टान्तः। तमेवाह
जह कोई वणितो ऊ, धूयं सेट्ठिस्स हत्थे निक्खिविउं । दिसिजत्ताए गतो तू, कालगतो सो वि सेट्ठी उ ॥ १८८४ ॥
एको वणिक् । तस्य गृहे मारिरुत्थिता। सर्वं गृहमुपच्छादितम् । एका दुहिता तिष्ठति।* परं स श्रेष्ठी निर्धन इति तां दुहितरं न परिणायितुं समर्थः, ततो दिग्यात्रां कर्तुमिच्छति, जानाति चैतस्याः कन्यकायाः स्वभावम् यथा- समर्थाऽऽत्मानमेषा संरक्षितुम्, केवलमेको
गाथा कन्यका महती गृहे तिष्ठन्ती दुष्टशीला लोकेन सम्भाव्यत इति मित्रवेष्ठिनो हस्ते तां
१८८४-१८९१ निक्षिप्य मुक्त्वा वाणिज्येन दिग्यात्रां गतः। तस्यापि च मित्रवेष्ठिनो गृहे मारिरभूत, ततः
उपसम्पसोऽपि सकुटुम्बो विनाशमुपागमत्। तथा चाह- स च श्रेष्ठी कालगतः। केवलमेका
दनाउनहें
उपनिक्षेपादिः कन्यका स्थिता, सा च मूलश्रेष्ठिदुहितुः सखी। सा च ससखीकाऽप्यात्मानं संरक्षितुं क्षमा, केवलं यशःप्रत्ययनिमित्तं राज्ञः समीपमुपस्थिता ॥ १८८४॥
८५६ (A) १. मुच्छादितम्-पु. प्रे.॥ २. काकिन्येका महती- खं.॥
For Private and Personal Use Only