________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५५ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
सम्प्रति "आयपरो दविह होइ निक्खेवो, लोइय लोगुत्तरितो" [१८७७] इति व्याख्यानार्थमाह
दंडेण उ अणुसट्ठा, लोए लोगुत्तरे य अप्पाणं । उवनिक्खिवंति सो पुण, लोइय लोगुत्तरे दुविहो ॥ १८८३ ॥
लोके लोकोत्तरे च यथार्ह विनयमकुर्वन्तो दण्डेनानुशिष्टा आत्मानमुपनिक्षिपन्ति । तत्र लौकिको दण्डः पूर्वमुक्तो यो मूलदेवेन भोजिकानां केषाञ्चित् कृतः। लोकोत्तरक: सूत्रार्थापहरणम्। इह नवे राजीव नवे गणधरे स्थापिते निक्षेपे रसो लोकस्य जायते। ततस्तत्फलाधुपवर्ण्यते- निक्षेपस्य फलं लोके प्रजापरिपालनम्, लोकोत्तरे ज्ञानादीनामभिवृद्धिः। स चोपनिक्षेपो द्विधा- लौकिको लोकोत्तरिकश्च । पुनरेकैको द्विधा- आत्मोपनिक्षेपः परोपनिक्षेपश्च, तत्र लौकिक आत्मनिक्षेपो ये प्रगल्भास्ते आत्मनैवाऽऽत्मानं राज्ञ उपनिक्षिपन्ति तिष्ठन्ति च : चरणोपपातकारकाः प्रपन्नशरणाः । ये पुनरप्रगल्भास्ते ये राज्ञो वल्लभास्तैरात्मानमुप-निक्षेपयन्ति, एष परोपनिक्षेपः॥ लोकोत्तरिक आत्मनिक्षेपो गच्छवर्तिनां साधूनाम्। तथाहि-ये गच्छे एव वर्तन्ते साधवस्ते आत्मानमात्मनैवाभिनवाचार्यस्योपनिक्षिपन्ति। परनिक्षेपः फडकगतानाम्, ते हि समागताः स्पर्द्धकपतिना निक्षिप्यन्ते, यथा- 'एते अहं च युष्माकमिति' ॥ १८८३ ॥
गाथा १८८०-१८८३ अनुगामिस्थापनप्रकारा:
८५५ (B)
For Private and Personal Use Only