________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८५५ (A)
आसुक्कारोवरए, अट्ठविते गणहरे इमा मेरा । चिलिमिणि हत्थाणुण्णा, परिभव सुत्त-ऽत्थहावणया ॥ १८८२ ॥
आशुकारेण शूलादिना उपरतः कालगत आशुकारोपरतः तस्मिन् सत्याचार्य अस्थापितेऽन्यस्मिन् गणधरे इयं वक्ष्यमाणा मर्यादा। तामेवाऽऽह- चिलिमिणीत्यादि। आशुकारोपरत आचार्यो जवनिकान्तरितः प्रच्छन्नः कार्यः, वक्तव्यं च, आचार्याणामतीवाशुभं शरीरं वाचापि वक्तुं न शक्नुवन्तीति, ततो यो गणधरपदार्हस्तं जवनिकाबहिः स्थापयित्वा सूरयो भण्यन्ते को गणधरः स्थाप्यतामेवं चोक्ता जवनिकाभ्यन्तरस्था गीतार्था आचार्यहस्तं उपर्युन्मुखं कृत्वा स्थाप्यमानगणधराभिमुखं दर्शयन्ति, वदन्ति च- गणधरत्वमेतस्यानुज्ञातम्, परं वाचा वक्तुं न शक्नुवन्ति, एषा हस्तानुज्ञा। तत एतस्योपरि वासा निक्षिप्यन्ते, स्थापित एष गणधर इति। पश्चात् 'कालगता आचार्याः' इति प्रकाश्यन्ते। परिभव सुत्तत्थहावणया इति, ततो येऽभिनवस्थापितस्याऽऽचार्यस्य परिभवोत्पादनबुद्ध्या आचार्योचितं विनयं न कुर्वन्ति तेषां सूत्रमर्थं वा स हापयति, न ददातीत्यर्थः ॥ १८८२ ॥
गाथा १८८०-१८८३ अनुगामिस्थापनप्रकाराः
८५५ (A)
१. चिलिमिलि- वा. मो. पु. सं. मु. ॥ २. चिलिमिलि वा. मो. पु. मु. ॥
For Private and Personal Use Only