________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५४ (EM
जक्खऽतिवातियसेसा, सरणगया जेहि तोसितो पुव्वं । ते कुव्वंती रणो, अत्ताण परे य निक्खेवं ॥ १८८० ॥
यक्षातिपातितशेषाः शरणगता: मूलदेवस्य शरणं प्रतिपन्नाः, यैश्च पूर्वं मूलदेवस्तोषितस्ते राज्ञ आत्मनः परस्य च निक्षेपम् अद्यप्रभृति युष्मदीया वयमेते चेति समर्पणं कुर्वन्ति ॥१८८०॥
उक्तो निरपेक्षो लौकिकः। सम्प्रति सापेक्षो निरपेक्षश्च लोकोत्तरिको वक्तव्यः। तत्र प्रथमं सापेक्षमाह
पुव्वं आयतिबंधं, करेइ सावेक्खो गणहरे ठविए । अट्ठविए पुव्वुत्ता, दोसा उ अणाहमादीया ॥ १८८१ ॥
यो नामाचार्यः सापेक्षः स पूर्वमेव गणधरे स्थापिते साधूनामायतिबन्धं करोति, यथा-अयं युष्माकमाचार्य इत्येतदाज्ञया वर्तितव्यमिति। अथ न पूर्वं गणधरं स्थापयति ततस्तस्मिन्नस्थापिते दोषा: पूर्वोक्ता: अनाथादयः "जाया मो अणाह त्ति" [गा.१५६५६८] इत्यादिनाऽभिहिताः क्षिप्तादयो दोषा भवेयुः ॥ १८८१ ॥
उक्तो लोकोत्तरिक: सापेक्षः। सम्प्रति निरपेक्षमाह
गाथा १८८०-१८८३ अनुगामिस्थापनप्रकाराः
८५४ (B)
१. निक्खवणं-सं. CP B3 IF
For Private and Personal Use Only