SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् चतुर्थ उद्देशकः ८५४ (AJA राजाहँ विनयम्। ततश्चिन्तयति मूलदेवो, ममैते मूर्खतया परिभवं कुर्वते, परं किमिदानीम् ? एते मूर्खतयैव कदाचित्स्वयमेवालमालं जल्पिष्यन्ति तदानीं शासयिष्यामि। ततोऽन्यदिवसे आत्मनः शिरसि तृणशूकजातं कृत्वा आस्थानमण्डपिकायामुपविष्टः । ते च भोजिका मूर्खतया शनैः परस्परमुल्लपन्ति- अद्यापि नन्वेष चौरत्वं न मुञ्चति, अन्यथा कथमेतादृशस्य तृणशूकजातस्येदृशे भवने सम्भवः? नूनं तृणगृहादिषु चौरिकानिमित्तमतिगतस्ततः तृणशूकजातं शिरसि लग्नमिति। एतच्चाकर्ण्य मूलदेवो रोषमुपागमत्, ब्रूते च- अस्ति कोपि नाम मम चिन्ताकारी य एतान् शास्ति? इति । तत एवमुक्ते तत्पुण्यप्रभावतो राज्यदेवताधिष्ठितैर्निशितासिलताकैश्चित्रकर्मप्रतीहारैः केषाञ्चित् शिरांसि लूनानि। शेषाः कृतप्राञ्जलयः आज्ञामभ्युपगतवन्तः । तथा चाह- भोइय परिभवेत्यादि, भोजिका: परिभवं कृतवन्तः, अन्यदा मूलदेवः तणत्ति तृणानि शीर्षे कृतवान्। ततस्तत्कोपावेशं दृष्ट्वा यक्षरतिपातनं विनाशनं कृतम्। शेषैः आज्ञा प्रतीच्छिता ॥ १८७९॥ गाथा १८८०-१८८३ अनुगामिस्थापनप्रकारा: ८५४ (A) एतदेव सविशेषमाह For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy