SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८५३ (B) निजमावासस्थानमुपगतः, क्षणमात्रेण च सहसा कालगतः। तस्मिन्निरपेक्षे कालगते द्वौ भिन्नरहस्यौ राजा मृत इति रहस्यं द्वौ जानीतः, तद्यथा चिकित्सावैद्योऽमात्यश्च, राजा चानपत्यः, ततोऽश्वस्याधिवासना कृता स सर्वत्र त्रिक-चतुष्क-चत्वरादिषु हिण्डाप्यतेकथं नाम राजलक्षणयुक्तं पुरुषं लभेमहि यं राजानं स्थापयाम इति। मूलदेवश्च यो वध्य आज्ञापितः स तेनावकाशेन नीयमानो वर्तते ॥ १८७८ ॥ आसस्स पट्ठिदाणं, आणयणं हत्थचालणं रन्नो । अभिसेग भोइपरिभव, तण जक्खऽतिवायणं आणा ॥ १८७९ ॥ तत: अश्वेन तस्य मूलदेवस्य वध्यतया नीयमानस्य पृष्ठं दत्तम्, गाथायां स्त्रीत्वं प्राकृतत्वात्, प्राकृते हि लिङ्गं व्यभिचारि, ततो मूलदेवो यत्र राजा प्रच्छन्नो जवनिकान्तरितोऽवतिष्ठते | तत्रानीतस्ततो वैद्यकुमारामात्याभ्यां जवनिकाभ्यन्तरस्थिताभ्यां राज्ञो हस्त उपरिमुखो नीत्वा चालितः। एतद् राज्ञो हस्तचालनम्। ततो वैद्यकुमारामात्याभ्यामुक्तम्- कृता राज्ञाऽनुज्ञा, यथा- मूलदेवं राजानमभिषिञ्चत, न शक्नोति वाचा वक्तुमिति। ततोऽभिषिक्तो मूलदेवो राज्ये। नवरमसदृश इति कृत्वा केचिद् भोजिका: परिभवमुत्पादयन्ति, न पुनः कुर्वन्ति गाथा उपसम्पत्स्वरूपम् ८५३ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy