________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
उपसम्पद द्विधा- लोके उत्तरे च लोकोत्तरे। तत्र लौकिकी राजादौ, आदिशब्दाद् | युवराजादिपरिग्रहः। तथा च- यदा राजा मृतो भवति तदा युवराजमुपसम्पद्यन्ते, तं राजानं स्थापयन्तीत्यर्थः, युवराजोऽन्यः स्थाप्यते । स च राजा भवति द्विविध:- सापेक्ष निरपेक्षश्च, सहापेक्षया प्रजानां यः स सापेक्षः, तद्विपरीतो निरपेक्षः । तथा च राजा प्रजा-राज्याद्यपेक्षः सन् जीवन्नेव युवराजं स्थापयति, निरपेक्षस्तु नैव ॥ १८७५ ॥
अथ किं जीवन्नेव युवराजं स्थापयति ? तत आह
चतुर्थ उद्देशक: .५२ (B)
जुवरायम्मि उ ठविए, पया उ बंधंति आयतिं तत्थ । नेव य कालगयम्मी, खुब्भंति पडिवेसियनरिंदा ॥ १८७६ ॥
युवराजे राज्ञा साक्षाद्विद्यमानेन स्थापिते प्रजास्तत्र आयतिं आगामिकालविषयां महतीमास्थां बघ्नन्ति, नैव च सहसा कालगते राज्ञि प्रातिवेशिकनरेन्द्राः सीमातटवर्तिनः प्रत्यन्तराजानः क्षुभ्यन्ति राज्यविलोडनाय सञ्चलन्ति ॥ १८७६ ॥
गाथा १८७५-१८७९
उपसम्पस्वरूपम्
८५२ (B)
उक्तः सापेक्षः। सम्प्रति निरपेक्षमाह
For Private and Personal Use Only