________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः
८५२ (A)
.
.
.
इत्यादि, अस्ति चात्र समुदायेऽन्यः कश्चिद् आचार्यादुपाध्यायाद् वा व्यतिरिक्तो गणी प्रवर्तक: स्थविरो वृषभो वा उपसम्पदनार्हस्ततः स उपसम्पत्तव्यः। अथान्यो नास्ति कश्चिदत्रोपसम्पदनार्हस्तर्हि स आत्मनः कल्पेनासमाप्तः इति से तस्य कल्पते एकरात्रिक्या प्रतिमया यत्र वसति तत्रैकरात्राभिग्रहेण जपणं जपणं इत्यादि, यस्यां यस्यां दिशि अन्ये साधर्मिका विहरन्ति तां तां दिशमुपलातुम्, न पुनः से तस्य कल्पते तत्र अपान्तराले विहारप्रत्ययं वस्तुम्। कल्पते से तस्य कारणप्रत्ययं संघातादिकारणनिमित्तं वस्तुम्। तस्मिंश्च कारणे निष्ठिते यदि परो वदेत्-वस आर्य ! एकरात्रं द्विरात्रं वा एवं से तस्य कल्पते एकरात्रं द्विरात्रं वा, वाशब्दात् त्रिरात्रं वा वस्तुम्। न से तस्य कल्पते एकरात्राद् द्विरात्राद्वा परं वस्तुम्। यत् तत्र एकरात्राद् द्विरात्राद्वा परं वसति तत्र से तस्य स्वकृतादन्तरात् च्छेदः परिहारो वेति ॥ अधुना नियुक्तिविस्तर:-अत्रोपसम्पदनार्हः इत्युक्तम् सा चोपसम्पद्-द्विविधालौकिकी लोकोत्तरिकी च । तथा चाह- .
लोगे य उत्तरम्मि य, उवसंपय लोगिगी उ रायाई । राया वि होइ दुविहो, सावेक्खो चेव निरवेक्खो ॥ १८७५ ॥
.
.X.
गाथा १८७५-१८७९ उपसम्पस्वरूपम्
८५२ (A)
For Private and Personal Use Only