________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् |
चतुर्थ
उद्देशकः ८५१ (B)
काले मरणस्याभिधानात्। अथवानन्तरसूत्रे निश्राऽभिहिता, निश्रा च उपसम्पच्चेत्येकार्थम्, अत्र चोपसम्पद्वक्ष्यते, ततोऽनन्तरमिदं सूत्रमुक्तम्। अयं पूर्वसूत्रैः सह सम्बन्धः ॥ १८७३ ॥
पुनः प्रकारान्तरेण सम्बन्धमाहअहवा एगयरम्मि उ, आयरियगणिम्मि वावि आहच्च । वीसुंभूते गच्छति, फड्डगं फड्डगा व गणं ॥ १८७४ ॥
अथवेति प्रकारान्तरे। एकतरस्मिन्नाचार्ये गणिनि वा उपाध्याये आहच्च कदाचिद् विष्वग्भूते कालं गते गच्छसत्काः स्पर्द्धकं गच्छन्ति स्पर्द्धका वा गणम्, ततो भिक्षुगमनप्रतिपादनार्थमिदं सूत्रम् ॥ १८७४॥
अनेन सम्बन्धेनाऽऽपतितस्यास्य व्याख्या
सूत्र ११
गाथा |१८७०-१८७४
उवसम्पत्सामाचारी
ग्रामानुग्रामं ग्रामं ग्रामेण दूइज्जमाणे गच्छन्, एतावता ऋतुबद्धः कालो दर्शितः, यं पुरतः कृत्वा प्रभुं कृत्वा इत्यर्थः, स नियमादाचार्य उपाध्यायो वा द्रष्टव्यः, विहरति सः आहच्च कदाचित् वीसुंभेज्जा शरीराद्विष्वग् भवेत् कालगतो भवेत् । अत्थि. या इत्थ
८५१ (B)
For Private and Personal Use Only