________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री - व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ८४९ (B)
तदेवं प्रथमा दृष्टान्तपरिपाटो भाविता। सम्प्रति द्वितीयां विभावयिषुः प्रथमतो गोवर्गदृष्टान्तंभावयति
गोणीणं संगेल्लं, नटुं अडवीए अण्णगोणेणं । जायाइं वच्छगाई, गोणाहिवती उ गेण्हति ॥ १८६८ ॥ दारं १॥
गवां स्त्रीगवानां संगिल्लं समुदायो नष्टोऽटव्यां पतितः, तत्र च तस्यान्यगवेन अन्यसत्केन पुङ्गवेन जातानि वत्सकानि वत्सकरूपाणि तानि गवेषणतः कथमपि गवां लाभे गवाधिपतयः स्त्रीगवीस्वामिनो गृह्णन्ति न पुंगवस्वामिनः; एवमेतान्यप्यस्माकमिति १॥ १८६८॥
एवमुक्ते संयतसत्का उद्भ्रामिकादृष्टान्तं पूर्वोक्तमुपन्यस्यन्ति। तथा चाहउब्भामिय पुव्वुत्ता, अहवा नीया उ जा परविदेसं । तस्सेव उ साऽऽभवती, एवं अम्हं तु आभवती ॥ १८६९ ॥ दारं २॥ उद्भामिका पूर्वमुक्ता यथा सापत्या तस्य जाता, अथवा या परं विदेशं नीता सा तस्यैवाभवति, पश्चादपि नान्यस्य; एवमेतान्यपत्यान्येषा चास्माकमाभवतीति २।। १८६९ ॥
गाथा १८६२-१८६९
आभवने दृष्टान्ताः
८४९ (B)
For Private and Personal Use Only