________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४९ (A
तेणं कुडुबिएणं, उब्भामइलेण दोण्हवी दंडो । दिन्नो सावि य तस्सा, जाया एवऽम्ह एयाइं ॥ १८६६ ॥ दारं ४॥
येन स्वैरिण्या अपत्यानि जनितानि तेन कुटुम्बिकेन उदभ्रामिलेन राजकुले गत्वा कथितम्, यथा- अहं देव! तस्याः सर्वं भोगभरं वहामि स्म, सोपि च तत्पतिर्मदीयेन भोगभरेण नियूंढवान्, तस्मात्प्रसादं कृत्वा मदीयान्यपत्यानि दापयतेति। तत एवमुक्ते राजा कुपितः, तथा भोगभरसंवाददर्शनत एवमिमावपन्यायकारिणौ इति द्वावपि सर्वस्वापहरणतो दण्डितवान्। तथा चाह- द्वयोरपि दण्डो दत्तः, दापित इत्यर्थः । साऽपि चापत्याऽपहरणतोऽनन्यगतिका सती तस्य जाता, एवमस्माकमेतान्यपीति ४॥ १८६६ ॥
पुणरवि य संजइइत्त, बेंति खरियाए अण्णखरएण । जं जायति खरियाहिवतिस्स होति एवऽम्ह एयाइं ॥ १८६७ ॥
पुनरपि संयतीसत्का ब्रुवते-खरिकायां गर्दभ्यां अन्यखरकेण अन्यसत्केन गर्दभेन यत् जायते तत्सर्वं खरिकाधिपतेर्भवति, एवमस्माकमप्यतानीति ५॥ १८६७ ॥
गाथा
(१८६२-१८६९
आभवने दृष्टान्ताः
८४९ (A)
For Private and Personal Use Only