________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
८४८ (A)
܀܀܀܀܀܀
܀܀܀܀܀܀
www.kobatirth.org
गोणीणं संगिल्लं१ उब्भामइला य नीये परदेसं२ ।
तत्तो खेत्ते देवी३, रण्णो अभिसेचणे चेव४ ॥ १८६२ ॥ दारगाहा ।
Acharya Shri Kailassagarsuri Gyanmandir
संयतीसमानकुलका गवां संगिल्लं समुदायं दृष्टान्तीकुर्वन्ति । तदनन्तरं संयतसकुलका या उद्भ्रामिका परदेशं नीता तां दृष्टान्तीकुर्वन्ति ततः पुनरपि संयतीसकुलका क्षेत्रे बीजम्, ततः संयतकुलका देवीं राज्ञोऽभिषेचनं चैवेति ॥ १८६२ ॥
तत्र भण्डने जाते यथा संयतीसकुलका गोदृष्टान्तं कुर्वन्ति तथा प्रतिपादयतिसंजइइत्त भणंती, संडेणऽण्णस्स जं तु गोणीए ।
जायति तं गोणिवइस्स, होति एवऽम्ह एयाई ॥ १८६३ ॥ दारं १ ॥
संजइइत्ता संयतीसत्काः समानकुलका ब्रुवते - अन्यस्य सत्केन षण्डेन यद् गोर्जायतेऽपत्यं तत्सर्वं गोपतेः गोस्वामिनो भवति, न षण्डस्वामिनः । एवमनेनैव दृष्टान्तेनास्माकमपि एतानि अपत्यान्याभवन्ति, न युष्माकमिति १ ॥ १८६३ ॥
एवमुक्ते -
For Private and Personal Use Only
गाथा
१८६२-१८६९ आभवने
दृष्टान्ता:
८४८ (A)