________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
अन्तः- परिसमाप्तिर्वागन्तः, तत्र भवो वागन्तिकः, स चासौ व्यवहारश्च तं कुरुतः। तद्यथायान्यस्माकमपत्यानि जनिष्यन्ते तेषां मध्ये ये पुरुषास्ते सर्वे मम, याः स्त्रियस्ताः सर्वाः तव; अथवा श्रमणी ब्रूते- ये पुरुषास्ते सर्वे मम, स्त्रियः सर्वास्तव; यदि वेदं भणति- सर्वाण्यपत्यानि तव; अथवा सर्वाण्यपत्यानि ममेति, तयोः संसारे स्थित्वा पुनः प्रव्रज्यां प्रत्युभ्युत्थितयोर्यदेव वागन्तिकेन व्यवहारेण निश्चितं तदेव तयोराभवति ॥ १८६० ॥
सूत्रम्
चतुर्थ उद्देशकः ८४७ (E)
अह न कतो तो पच्छा, तेसिं अब्भुट्ठियाण ववहारो । गोणी१ आसू२ भामिग३, कुडुंबि४ खरए य खरिया य५ ॥ १८६१ ॥
अथ न कृतः पूर्वं वागन्तिको व्यवहारः, पश्चात्तयोः प्रवज्यायामभ्युत्थितयोः स्वस्वकुलममत्वेन व्यवहारः भण्डनमभूत्, तत्र संयतीकुलसत्का गौदृष्टान्तम् उद्भ्रामिकादृष्टान्तं खर-खरिकादृष्टान्तं चान्तराऽन्तरोपन्यस्यन्ति, संयतकुलसत्का अश्वदृष्टान्तं कौडुम्बिकदृष्टान्तं च ॥ १८७० ॥
गाथा १८५६-१८६१
आभवनव्यवहार:
८४७ (B)
अथवेयमन्या दृष्टान्तपरिपाटी
For Private and Personal Use Only