________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४६ (B)
उपतिष्ठन् प्रव्रज्यां जिघृक्षुः एवमेव 'त्वमेव ममाचार्यः' इति निश्चित्य प्रव्रजितः सन् यः पश्चात्तेषां पूर्वाचार्याणां आत्मीयानामावृत्तो जायते। इतरैर्वा येषां समीपे प्रव्रजितस्तैर्वा रोषितः सन् 'अहं पूर्वाचार्यस्यैव, न युष्माकम्' इति स एवं बुवाणोऽपि पुन: स्वच्छन्ददिशं स्वेच्छया दिशं न लभते, किन्तु यमभ्युपगतस्तस्यैव स इति ॥ १८५७ ॥
यस्तु पश्चात्कृतत्वेनाऽज्ञातः, यस्य तु ज्ञातस्यापि पूर्वदिक्सङ्ग्रहणे भावो न ज्ञायते, तस्य लिङ्गदाने विधिमाह
अण्णातो परियाए, पुण्णे न कहेज जो समुद्रुतो । लज्जाए मा व घेच्छति, मा व न दिक्विज मे भयणा ॥ १८५८ ॥
अज्ञातः सन् यः पर्याये पूर्णेऽपि समुपतिष्ठन् आत्मानं न कथयति, यथा- | अहममुकस्याचार्यस्य पश्चात्कृत इति, कस्मान्न कथयति ? इति चेत् अत आह- लज्जया, यदि वा 'मा तत्पाक्षिकेण केनाप्यहं ग्रहीष्ये,' अथवा 'मा अमी मां पश्चात्कृतं ज्ञात्वा न दीक्षयेयः इति भजनाद् विकल्पनान्न कथयति ॥ १८५८ ॥
गाथा १८५६-१८६१
आभवनव्यवहारः
८४६ (B)
For Private and Personal Use Only