________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४६ (AM
एवं खलु संविग्गे, असंविग्गे वारणा न उद्दिसणा । अब्भुवगतो जं भणती, पच्छ भणंते न से इच्छा ॥ १८५६ ॥
एवम् उक्तेन प्रकारेण संविग्ने पूर्वाचार्ये उद्दिश्यमाने खलु विधिरुक्तः । अथ स पूर्वाचार्यमात्मीयमसंविग्नमुद्दिशति तर्हि तेन असंविग्ने पूर्वाचार्य उद्दिश्यमाने तस्य वारणा प्रतिषेधः कर्तव्यः, न दातव्या तस्य प्रव्रज्या, गुरुनिन्दकत्वादिति भावः । न च स तं पूर्वाचार्यमसंविग्नमुद्देशयितव्यः । एष भगवतां परमगुरूणामुपदेश:- न उद्दिसणा इत्यादि । अथ स ब्रूते- नाहं संविग्नमसंविग्नं वा पूर्वाचार्यमुद्दिशामि, किन्तु त्वमेव ममाचार्य इति; तर्हि यदि पूर्वाचार्यस्य नोद्देशना, यं चाभ्युपगतस्तं प्रत्येवं भणति ततः स प्रव्राजनीयः। अथ स प्रव्राजितः सन् पश्चाद्वदेत्, यथा- 'पूर्वाचार्यस्याहम्, न युष्माकम्' इति तत आह- पश्चादेवं भणति तस्मिन् न से तस्य इच्छा, किन्तु यमभ्युपगतस्तस्यैव सः ॥ १८५६ ॥
गाथा १८५६-१८६१
आभवनव्यवहारः
एतदेव स्पष्टतरमाहएमेव निच्छिऊण, उट्ठेतो पच्छ तेसिमाउट्टो । इयरेहि व रोसवितो, सच्छंद दिसं पुणो न लभे ॥ १८५७॥
८४६ (A)
For Private and Personal Use Only