SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ सम्यगुपशान्तः सन् स्वकमाचार्यमाश्रयते तर्हि स प्रव्राजनेन सङ्ग्रहीतव्यः । यदि पुनर्न संगृह्णाति ततः प्रायश्चित्तं मासलघु, अन्यच्च तेनासग्रहणे यदि तस्य श्रद्धाभङ्गो भवति, यदपि चान्यस्य समीपे दूरं गच्छन् पथि स्तेन-श्वापदादिभ्योऽनर्थं प्राप्नोति तन्निमित्तमपि तस्य प्रायश्चित्तम्, तस्मादवश्यं सग्रहीतव्यः ॥ १८५४ ॥ उद्देशकः | ८४५ (B) संविग्गमुद्दिसंते, पडिसेहं तस्स संथरे गुरुगा । किं अम्हं तु परेणं, अहिकरणं जं तु तं तेसिं ॥ १८५५ ॥ अथान्यस्य समीपे व्रजन् स पूवाचार्यमात्मीयं संविग्नमुद्दिशति प्रकाशयति, तस्मिन् संविनमुद्दिशति यस्य समीपे प्रव्रजितुमिच्छति स यदि प्रतिषेधयति, यथा- किमस्माकं परेण परकीयेन ? यत् येषामधिकरणं तत्तेषां भवत्विति। तस्य एवं प्रतिषेधतः प्रायश्चित्तं चत्वारो गुरुकाः। एतच्च संस्तरणे सति द्रष्टव्यम् । अथाऽसंस्तरन् प्रतिषेधयति ततः शुद्धः। अथ स पूर्वाचार्यस्यैव पार्श्वे कस्माल्लिङ्गं न प्रतिपद्यते? उच्यते परुषा वा ते आचार्याः, यदि वा यत्र ते पूर्वाचार्या विहरन्ति तत्र तस्य सागारिकं किमपि तिष्ठति, अतिदूरे वा ते उपलभ्यन्ते, ग्लानो वा पूर्वाचार्यों जात इति ॥ १८५५ ॥ गाथा १८५०-१८५५ सारूपिकादेः आभवनादिः ८४५ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy