________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशक:
८४४ (A)
उक्तो गृहस्थः पश्चात्कृतः। सम्प्रति सारूपिकमधिकृत्याहसारूवी जज्जीवं, पुव्वायरियस्स जे य पव्वावे । अपव्वाविए सच्छंदो, इच्छाए जस्स सो देइ ॥ १८५० ॥
सारूपिकः रजोहरणादिधारी स यावजीवं पूर्वाचार्यस्याऽऽभवति, न तु त्रिवर्षप्रमाणा | तस्य मर्यादा। यानि च स सारूपिकः प्रव्राजयति मुण्डितानि करोति तान्यपि पूर्वाचार्यस्याऽऽभवन्ति, तेन मुण्डितत्वात्। यानि पुनस्तेन न मुण्डितानि किन्त्वद्यापि सशिखाकानि वर्तन्ते तदायत्तानि च तान्यप्रवाजितान्यधिकृत्य तस्य स्वच्छन्दः आत्मेच्छा । तथा चाह- यस्येच्छया स ददाति तस्याभवन्ति, नान्यस्येति। एतच्चापुत्रादिषु द्रष्टव्यम्,
४१८५०-१८५५ पुत्रादीनि पुनः पूर्वाचार्यस्याभवन्ति ॥ १८५०॥
सारूपिकादेः जो पुण गिहत्थमुंडो, अहवा मुंडो उ तिण्हवरिसाणं ।
आभवनादिः आरेणं पव्वावे, सयं च पुव्वायरिए सव्वं ॥ १८५१ ॥
८४४ (A) १. सच्छंदे-पु. प्रे.॥
.
गाथा
For Private and Personal Use Only