________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४३ (B)
सम्यक्त्वयुते परलिङ्गादिगते मूलाचार्यमर्यादा तिस्रः समाः त्रीणि वर्षाणि, त्रिषु वर्षेषु पूर्णेषु पूर्वपर्यायस्त्रुट्यति ॥ १८४८ ॥
एमेव देसियम्मि वि, सभासिएणं तु समणुसिट्ठम्मि । ओसण्णेसु वि एवं, अच्चाइण्णे न पुण एण्डिं ॥ १८४९ ॥
एवमेव अनेनैव प्रकारेण दैशिकेऽपि सभाषिकेण समानभाषाव्यवहारिणा समनुशिष्टे : ज्ञातव्यम्। किमुक्तं भवति? द्रमिलाऽऽन्ध्रादिदेशोद्भवो म्लेच्छप्राय आर्यभाषामजानानो यो विपरिणतः सन् त्यक्तसम्यक्त्वो गृहस्थीभूतः परिव्राजकादिषु निह्नवेषु वा मिलितो यदि
गाथा केनापि साभाषिकेण समनुशिष्टः सन् प्रत्यावर्तते तर्हि स तस्य समनुशासकस्याऽऽभवति, १८४४-१८४९ नान्यस्य। अथ ससम्यक्त्वः परलिङ्गादिषु गतस्तर्हि मूलाचार्यपर्यायपरिमाणं तिस्रः समाः।।
पाश्चात्कृता
दिविषये अवसन्नेषु अपि एवं पूर्वमासीत्। यथा- अवसन्नीभूतं तद्दिवसैमेव य उपशमयति स | आभावनादिः तस्याभवति । इदानीं पुनः कषायैः अत्याकीर्णे नेयं व्यवस्था किन्तु त्रीणि वर्षाणि ॥ १८४९ ॥
८४३ (B)
१. आभवनपर्याय इत्यर्थः । २. संभा" CPB ३ ॥ ३. 'समपि य- वा. मो. पु. सं.॥
For Private and Personal Use Only