________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८४३ (A)
इण्डिं पुण जीवाणं, उक्कडकलुसत्तणं वियाणित्ता । तो भद्दबाहुणा ऊ, तेवरिसा ठाविया ठवणा ॥ १८४७ ॥
इदानीं पुनर्जीवानामुत्कटं कलुषत्वं-कषायकलुषत्वं विज्ञाय ततो भद्रबाहुना त्रैवर्षिका |* त्रिवर्षप्रमाणा स्थापना मर्यादा स्थापिता, चारित्रतटाके संयमोदकपरिवहनरक्षणार्थं त्रैवार्षिकी मर्यादापाली कृतेति भावः ॥ १८४७ ॥
सम्प्रति त्रैवार्षिक्यामेव स्थापनायां विशेषमभिधित्सुरिदमाहपरलिंगनिण्हवे वा, सम्मइंसणजढे तु संकंते ।
गाथा तद्दिवसमेव इच्छा, सम्मत्तजुते समा तिणि ॥ १८४८ ॥
१८४४-१८४९ परलिङ्गं द्विधा-गृहिलिङ्गं परतीर्थिकलिङ्गं च। तत्रेह परतीर्थिकलिङ्गं गृह्यते। तस्मिन् |
पाश्चात्कृता
दिविषये परतीर्थिकलिङ्गे निह्नवे वा त्यक्तसम्यग्दर्शने सङ्क्रान्ते यस्य समीपे तद्दिवसमपीच्छा तस्य
| आभावनादिः स आभवति। अयमत्र भावः- स भग्नचारित्रपरिणामः सम्यग्दर्शनमपि परित्यज्य परिव्राजकादीनां निह्नवानां वा मध्ये गतो यदि तद्दिवसमेव यस्य समीपे प्रव्रजितुमिच्छति
८४३ (A) ततः स तस्यैवाभवति, न मूलाचार्यस्य । अथ सम्यक्त्वसहितः परलिङ्गादिषु गतस्ततस्तस्मिन्
x
For Private and Personal Use Only