________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४२ (A)
साहारणो उ भणितो, इयाणि पच्छाकडं तु वुच्छामि । सो दुविहो बोधव्वो, गिहत्थ सारूविओ चेव ॥ १८४४ ॥
साधारणोऽभिहितः । इदानीं पश्चात्कृतं वक्ष्यामि । स च पश्चात्कृतो द्विविधः । तद्यथागृहस्थ: सारूपिकश्च । गृहे-गृहलिङ्गे तिष्ठतीति गृहस्थः । समानं रूपं सरूपम् तेन चरतीति सारूपिकः ॥ १८४४॥
अनयोरेव स्वरूपमभिधित्सुराहअसिहो ससिह गिहत्थो, रयहरवज्जो उ होइ सारूवी । धारेइ निसिजं तू, एगं ओलंबगं चेव ॥ १८४५ ॥
गृहस्थः पश्चात्कृतो द्विविधः अशिखः सशिखाकश्च। तत्र यः केशान् धारयति स सशिखाकः। यस्तु मुण्डनेन तिष्ठति सः अशिखाकः । स चाशिखाको भवति रजोहरवर्जः रजोहरणवर्जः । रजोहरणग्रहणं दण्डक-पात्रादीनामुपलक्षणम्, ततोऽयमर्थः- यः केवलं शिरसो मुण्डनमात्रं कारयति, न च रजोहरण-दण्डक-पात्रादिकं धरते सोऽशिखाक इति। यस्त
गाथा १८४४-१८४९ | पाश्चात्कृता
दिविषये आभावनादिः
| ८४२ (A)
For Private and Personal Use Only