________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
*
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८४१ (B)
आगंतुगो वि एवं, ठवेंतो खेत्तोवसंपयं लभति । साहारणे य दोण्हं, एसेव गमो य नायव्वो ॥ १८४३ ॥
आगन्तुकोऽपि एवं पूर्वोक्तेन प्रकारेण गच्छे स्थापयन् क्षेत्रोपसम्पदं लभते । इयमत्र भावना-आगन्तुकोऽपि यदि पूर्वस्थिते सूत्रादि गृह्णाति अन्यस्यागन्तुकस्य समीपे सूत्रादि जिघक्षं मेधाविनं शिष्यं प्रेषयति, यदि वा गीतार्थे गणं निक्षिप्य स्वयं वाचयति तदा तत् क्षेत्रं तस्यैव मूलागन्तुकस्य। अथ गणमनिक्षिप्य अगीतार्थे वा गणं निक्षिप्य सूत्रादि गृह्णाति तदा ग्राहयितुः क्षेत्रम्। अगीतार्थस्य च गणं निक्षिपतः प्रायश्चित्तं चतुर्गुरुकमिति। तथा साधारणे च द्वयोराचार्ययोः क्षेत्रे सूत्रादिग्रहणचिन्तायामेष एव गमो ज्ञातव्यः। तद्यथा-द्वयोः साधारणे क्षेत्रे एको यद्यपरस्य समीपे सूत्रादिकं ग्रहीतुकामः प्राज्ञं विनीतं शिष्यं प्रेषयति, गणं वा गीतार्थे निक्षिप्य स्वयं गृह्णाति तदोभयोरपि साधारणम् । अथ गणमनिक्षिप्य अगीतार्थे वा निक्षिप्य वाचयति तदाऽध्यापयितुः क्षेत्रम्, नेतरस्य, तदपि च तावद्यावत् स ततो गच्छान्न निर्गच्छति। निर्गते उभयोः साधारणम्। अगीतार्थस्य गणाध्यारोपे चात्रापि प्रायश्चित्तं चतुर्गुरुकम् ॥ १८४३॥
गाथा १८३८-१८४३
श्रुतनिश्राविशेषः
८४१ (B)
For Private and Personal Use Only