________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ | उद्देशकः ८४१ (A)
तत्क्षेत्रं पश्चादागते वाचयति सक्रामति । अथागीतार्थे स्वशिष्ये गणं निक्षिपति, निक्षिप्य च पश्चात्सूत्रादि वाचयति तर्हि अगीतार्थे गणं निक्षिपतस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः। न च तस्य क्षेत्रम् किन्तु सूत्रादिवाचयितुः पश्चादागतस्य ॥ १८४१ ॥
अह निक्खिवती गीते, होइ खेत्तं तु तो गणस्सेव । तस्स पुण अत्तलाभो, वायंते न निग्गतो जाव ॥ १८४२ ॥
अथ गीते गीतार्थे शिष्ये गणं निक्षिपति, निक्षिप्य च पश्चादागतस्य समीपे सूत्रादि गृह्णाति, तोत्ति' ततः क्षेत्रं गणस्यैवाऽऽभवति न पाठयितुः पश्चादागतस्याचार्यस्य । अथ यदा गणमनिक्षिप्य अगीतार्थे वा निक्षिप्य सूत्रादि गृह्णाति, तदा कियन्तं कालमाभाव्यं तत्क्षेत्रं पाठयितुः? अत आह- तस्सेत्यादि, तस्य पुनः पाठयितुः पुनस्तस्मिन् क्षेत्रिके वाचयति
आत्मलाभः आत्मीयत्वेन क्षेत्रस्य लम्भनं तावद् यावत् स ततो गच्छान्न निर्गतो भवति, किमुक्तं भवति, यावत्तस्य समीपे अध्ययनार्थमवतिष्ठते तावत्तस्याध्यापयितुः पश्चादागतस्याऽऽभवति ? तत् क्षेत्रम्, यदपि च शिष्यादिकं तस्य सूत्रादि ग्रहीतुरुपतिष्ठति तदपि तस्याऽऽभवति। निर्गते च ततो गच्छात्तस्मिन् भूयस्तस्यैव पूर्वस्थितस्य क्षेत्रं सङ्क्रामतीति ॥ १८४२ ॥
गाथा १८३८-१८४३
श्रुतनि
श्राविशेषः
८४१ (A)
For Private and Personal Use Only